Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-9, पाठ-2, “स्वर्णकाकः” का अभ्यास
Chapter 2

NCERT कक्षा-9, पाठ-2, “स्वर्णकाकः” का अभ्यासSanskrit Class 9 Lesson 2 Swarnkakah Abhyas #complete solution

Class 9 Sanskrit Lesson 2 स्वर्णकाकः अभ्यास
NCERT कक्षा-9, पाठ-2, “स्वर्णकाकः” का अभ्यासSanskrit Class 9 Lesson 2 Swarnkakah Abhyas #complete solution
↗ Share

Textbook Questions and Answers: · Lesson script

कक्षा-9, शेमुषी भाग-2, द्वितीयः पाठ स्वर्णकाकः

अभ्यासः

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) माता काम् आदिशत्?

उत्तरम् :- पुत्रीम् ।

(ख) स्वर्णकाकः कान् अखादत् ?

उत्तरम् :- तण्डुलान् ।

(ग) प्रासादः कीदृशः वर्ततेः?

उत्तरम् :- स्वर्णमयः।

(घ) गृहमागत्य तया का समुद्घटिता?

उत्तरम् :- मञ्जूषा ।

(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?

उत्तरम् :- बृहत्तमाम् ।

प्रश्नः – 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?

उत्तरम् :- निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत् ।

(ख) बालिकया पूर्वं कीदृशः काकः न दृष्टः आसीत्?

उत्तरम् :- बालिकया पूर्वम् एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत् ।

(ग) निधनायाः दुहिता मञ्जूषायां कानि अपश्यत्?

उत्तरम् :- निर्धनायाः दुहिता मञ्जूषायां महार्हाणि हीरकाणि अपश्यत् ।

(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?

उत्तरम् :- बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।

(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत् ?

उत्तरम् :- गर्विता बालिका स्वर्णमयं सोपानम् अयाचत् ताम्रमयं च प्राप्नोत् ।

प्रश्नः – 3. (क) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखत-

उत्तरम् :- शब्दाः = विलोमपदानि

(क) पश्चात् = पूर्वम्

(ख) हसितुम् = रोदितुम्

(ग) अधः = उपरि

(घ) श्वेतः = कृष्णः

(ङ) सूर्यास्तः = सूर्योदयः

(च) सुप्तः = प्रबुद्धः

(ख) सन्धिं कुरुत-

(क) नि + अवसत् = न्यवसत्

(ख) सूर्य + उदयः = सूर्योदयः

(ग) वृक्षस्य +उपरि = वृक्षस्योपरि

(घ) हि + अकारयत् = ह्यकारयत्

(ङ) च + एकाकिनी = चैकाकिनी

(च) इति + उक्त्वा = इत्युक्त्वा

(छ) प्रति + अवदत् = प्रत्यवदत्

(ज) प्र + उक्तम् = प्रोक्तम्

(झ) अत्र + एव = अत्रैव

(ञ) तत्र + उपस्थिता = तत्रोपस्थिता

(ट) यथा + इच्छम् = यथेच्छम्

प्रश्नः – 4 :- स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) ग्रामे (निर्धना स्त्री) अवसत् ।

उत्तरम् :- का‌ ?

(ख) (स्वर्णकाकं) निवारयन्ती बालिका प्रार्थयत् ।

उत्तरम् :- कम् ?

(ग) (सूर्योदयात्) पूर्वमेव बालिका तत्रोपस्थिता ।

उत्तरम् :- कस्मात् ?

(घ) बालिका (निर्धनमातुः) दुहिता आसीत् ।

उत्तरम् :- कस्याः ?

(ङ) लुब्धा वृद्धा (स्वर्णकाकस्य) रहस्यमभिज्ञातवती।

उत्तरम् :- कस्य ?

प्रश्नः – 5 : प्रकृतिप्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

उत्तरम् :- (क) वि + लोक् + ल्यप् = विलोक्य

(ख) नि + क्षिप् + ल्यप् = निक्षिप्य

(ग) आ + गम् + ल्यप् = आगम्य

(घ) दृश् + क्त्वा = दृष्ट्वा

(ङ) शी+ क्त्त्वा = शयित्वा

(च) लघु + तमप् = लघुतमम्

प्रश्नः – 6 :- प्रकृतिप्रत्यय-विभागं कुरुत –

(क) रोदितुम् = रुद् + तुमुन्

(ख) दृष्ट्वा = दृश् + क्त्वा

(ग) विलोक्य = वि + लोक् + ल्यप्

(घ) निक्षिप्य = नि + क्षिप् + ल्यप्

(ङ) आगत्य = शी+ क्त्वा

(च) शयित्वा = शी + क्त्वा

(छ) लघुतमम् = लघु + तमप्

प्रश्नः – 7 :- अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का – कं/काम्

(क) पूर्वं प्रातराशः क्रियताम्।

उत्तरम् :- स्वर्णकाकः . बालिकाम्

(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।

उत्तरम् :- वृद्धा माता . पुत्रीम्

(ग) तण्डुलान् मा भक्षय।

उत्तरम् :- बालिका . स्वर्णकाकम्

(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।

उत्तरम् :- स्वर्णकाकः . बालिकाम्

(ङ) भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।

उत्तरम् :- लुब्धायाः पुत्री . स्वर्णकाकम्

.

प्रश्नः – 8 :- उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोग कृत्वा रिक्तस्थानानि पूरयत-

यथा – मूषकः बिलाद् बहिः निर्गच्छति। (बिल)

उत्तरम् :-

(क) जनः ग्रामात् बहिः आगच्छति। (ग्राम)

(ख) नद्यः पर्वतात्/ पर्वतेभ्यः निस्सन्ति। (पर्वत)

(ग) वृक्षात् पत्राणि पतन्ति। (वृक्ष)

(घ) बालकः सिंहात् बिभेति। (सिंह)

(ङ) ईश्वरः क्लेशात् त्रायते। (क्लेश)

(च) प्रभुः भक्तं पापात् निवारयति। (पाप)

▶ Videos in this lesson
1
Class 9 Sanskrit Lesson 2 स्वर्णकाकः अभ्यास

Comments

Leave a comment

Your email address will not be published. Required fields are marked *

🔒 This content is protected.